|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.64. अध्यायः 064
Mahabharata - Vana Parva - Chapter Topics
कर्कोटकवचनान्नलेनायोध्यायां बाहुक इति स्वनामनिर्देशपूर्वकमृतुपर्णनृपसमीपोपसर्पणम् ॥ 1 ॥ ऋतुपर्णेन तस्य सारथ्ये नियोजनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
बृहदश्व उवाच। 3-64-0x(1939)(18388)
तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलः।
ऋतुपर्णस्य नगरं प्राविशद्दशमेऽहनि ॥ 3-64-1(18389)
स राजानमुपातिष्ठद्बाहुकोऽहमिति ब्रुवन्।
अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः ॥ 3-64-2(18390)
अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च।
अन्नसंस्कारमपि च जानाम्यन्यैर्विशेषतः ॥ 3-64-3(18391)
यानि शिल्पानि लोकेऽस्मिन्यच्चैवान्यत्सुदुष्करम्।
सर्वं यतिष्ये तत्कर्तुमृतुपर्ण भरस्व माम् ॥ 3-64-4(18392)
`इत्युक्तः स नलेनाथ ऋतुपर्णो नराधिपः।
उवाच सुप्रीतमनास्तं प्रेक्ष्य च महीपते' ॥ 3-64-5(18393)
वसबाहुक भद्रं ते सर्वमेतत्करिष्यसि।
शीघ्रयाने सदा बुद्धिर्ध्रियते मे विशेषतः ॥ 3-64-6(18394)
स त्वमातिष्ठ योगं तं येन शीध्रां हया मम।
भवेयुरश्वाध्यक्षोसि वेतनं ते शतंशतम् ॥ 3-64-7(18395)
त्वामुपस्थास्यतश्चैव नित्यं वार्ष्णेयजीवलौ।
एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक ॥ 3-64-8(18396)
बृहदश्व उवाच। 3-64-9x(1940)
एवमुक्तो नलस्तेन न्यवसत्तत्रपूजितः।
ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवलः ॥ 3-64-9(18397)
स वै तत्रावसद्राजा वैदर्भीमनुचिन्तयन्।
सायंसायं सदा चेमं श्लोकमेकं जगाद ह ॥ 3-64-10(18398)
क्व नु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनी।
स्मरन्ती तस्य मन्दस्य कं वाऽऽसाद्योपतिष्ठति ॥ 3-64-11(18399)
एवं ब्रुवन्तं राजानं निशायां जीवलोऽब्रवीत्।
कामेनां शोचसे नित्यं श्रोतुमिच्छामि बाहुक।
आयुष्मन्कस्य वा नारी यामेवमनुशोचसि ॥ 3-64-12(18400)
तमुवाच नलो राजा मन्दप्रज्ञस्य कस्यचित्।
आसीद्बहुमता नारी तस्या दृढतरश्च सः ॥ 3-64-13(18401)
स वै केनचिदर्थेन तया मन्दो व्ययुज्यत।
विप्रयुक्तः स मन्दात्मा भ्रमत्यसुखपीडितः ॥ 3-64-14(18402)
दह्यमानः स शोकेन दिवारात्रमतन्द्रितः।
निशाकाले स्मरंस्तस्याः श्लोकमेकं स्म गायति ॥ 3-64-15(18403)
स विभ्रमन्महीं सर्वां क्वचिदासाद्य किंचन।
वसत्यनर्हस्तद्दुःखं भूय एवानुसंस्मरन् ॥ 3-64-16(18404)
सा तु तं पुरुषं नारी कृच्छेऽप्यनुगता वने।
त्यक्ता तेनाल्पभाग्येन दुष्करं यदि जीवति ॥ 3-64-17(18405)
एका बालाऽनभिज्ञा च मार्गमाणाऽतथोचिता।
क्षुत्पिपासापरीताङ्गी दुष्करं यदि जीवति ॥ 3-64-18(18406)
श्वापदाचरिते नित्यं वने महति दारुणे।
त्यक्ता तेनाल्पभाग्येन मन्दप्रज्ञेन मारिष ॥ 3-64-19(18407)
इत्येवं नैषधो राजा दमयन्तीमनुस्मरन्।
अज्ञातवासं न्यवसद्राज्ञस्तस्य नवेशने ॥ 3-64-20(18408)
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि चतुःषष्टितमोऽध्यायः ॥ 64 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-64-9 मारिष आर्य ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|